📚 श्रीमद्भागवतम् (यदुपत्याटीका) - स्कन्धः ६
Page 1
Download 📥
________________ श्रीशुक उवाच - सत्यधर्मीया श्रीभगवद् बादरायणप्रणीतम् श्रीमद् भागवतम् अष्टमः स्कन्धः (अनुवृत्तः) ॥ अथ षष्ठोऽध्यायः ॥ एवं स्तुतः सुरगणैर्भगवान् हरिरीश्वरः । तेषामाविरभूद् राजन् सहस्रार्कोदयद्युतिः ॥ १ ॥ स्तुतिस्तु ज्ञानपूर्वं कृताऽर्थजननीति प्रपञ्चयंस्तत्रादौ प्रस्तुतस्तुतितो हरिराविरासीदुदासीनः किं किं वाऽवादीदिति क्षितिपतिसन्देहमाद्यान्तिमौ पक्षावङ्गीकृत्य समाधत्ते ।। श्रीशुक इति । एवं । ब्रह्मादिभिरिति शेषः । स्तुत: ब्रह्मणः साक्षात्स्तावकस्य कण्ठतोऽत्राननुवादः सुरगणैरित्यप्रस्तुतोक्तिश्च उत्तरत्र प्रोच्यमानप्रतिहतेक्षणत्वं विरिञ्चो भगवान्दृष्ट्वेति तदवलोकयितृत्वं विशेषतः संभवत इति ज्ञेयम् । उदयकालिकी द्युतिरुदयद्युतिः । सहस्रं सहस्रसङ्ख्याश्च तेऽर्काश्च तेषामुदयद्युतिर्यस्य सः । अभूतोपमेयम् । सहस्रलक्षामितभानुदीधितिमित्याद्युक्तेरिदमपि मध्यमसुर- गणग्रहण इवोत्तमविध्याद्यग्रहणे च निमित्तम् ॥ १ ॥ छलारी द्युतिर्यस्य सः ।। १ ।। लिङ्गेरी , हरेराविर्भावप्रकारं वर्णयति ।। एवमिति । सहस्रार्काणामुदये द्युतिरिव परमात्मज्ञानमिव परमात्मविषयस्तुतिरपि तत्प्रसादाद्यशेषपुरुषार्थहेतुरिति सूच्यतेऽस्मिन्नध्याये । अत्रापि प्रथमं हरेः प्रकटनप्रकारमाह ।। एवमित्यादिना । हे राजन् । सहस्रसंख्याकानामर्काणां सूर्यानामुदये सति यादृशी द्युतिः कान्तिः स्यात्तादृक्कान्त्युपेतः सन् हरिराविरभूत् प्रकटो बभूव । प्राकट्ये निमित्तमाह । एवं स्तुत इति । चतुर्मुखादिसुरगणैरेवम् । प्रकटितस्य हरेः सुरकार्यकरणसामर्थ्य सूचनाय भगवान्नीश्वर इति विशेषणद्वयम् ॥ १ ॥